अमोघा

सुधाव्याख्या

न मोघा । ‘अलिप्रिया विशालाग्राप्यमोघा पाटलिर्द्वयोः' इति वाचस्पतिः ॥ ‘मोघा स्त्री पाटलावृक्षे मोघं त्रिषु निरर्थके' इति रुद्रात् ‘मोघा' अपि । मोहयति । पचाद्यच् (३.१.१३४) न्यङ्क्वादिः (७.३.५३) ॥