अम्बुवेतसः

सुधाव्याख्या

अम्बुनि जातो वेतसः । शाकपार्थिवादिः (वा० २.१.६९) ॥


प्रक्रिया

अम्बु + ङि + वेतस + सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम् ।
अम्बु + वेतस - सुपो धातुप्रातिपदिकयोः 2.4.71
अम्बुवेतस + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अम्बुवेतस + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अम्बुवेतस + रु - ससजुषो रुः 8.2.66
अम्बुवेतस + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अम्बुवेतसः - खरवसानयोर्विसर्जनीयः 8.3.15