शीतः

सुधाव्याख्या

शीतमस्यास्ति । अच् (५.२.१२७) । ‘वेतसे बहुवारे ना गुणे शीतं हिमे त्रिषु' इति रभसः । क्लीबलिङ्गमपि । ‘शीतं तुषारवानीरबहुवारद्रुमेषु च' इत्यजयात् ॥