ऐरावतः

सुधाव्याख्या

ऐरेति । इरावत्या विद्युत इवायम् । तस्येदम्' (४.३.१२०) इत्यण् । ‘ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुटद्रुभे । नागभेदे च पुंसि स्याद्विद्युत्तद्भेदयोः स्त्रियाम् । नपुंसके महेन्द्रस्य ॠजुदीर्घशरासने' ॥