नागरङ्गः

सुधाव्याख्या

नागा रजन्त्यत्र । ‘रञ्ज रागे' (भ्वा० उ० अ०) । ‘हलश्च' (३.३.१२१) इति घञ् । नागस्य सिन्दूरस्येव रङ्गोऽस्य, इति वा ॥ ‘नागरङ्गे तु नारङ्गो नार्यङ्गस्तकवासनः' इति वाचस्पतिः । ‘नारङ्गः पिप्पलीरसे । यमजप्राणिनि विटे नागरङ्गद्रुमेऽपि च ॥