तिन्दुकः

सुधाव्याख्या

तीति । तिम्यति । ‘तिम आर्द्रत्वे' (दि० प० से०) । मृगय्वादिः (उ० १.३७) । ‘संज्ञायां कन् (५.३.७५) ॥


प्रक्रिया

धातुः - तिमँ आर्द्रीभावे


तिम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिम् + द् + कु - मृगय्वादयश्च (१.३७) । उणादिसूत्रम् ।
तिम् + द् + उ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
तिं + दु - नश्चापदान्तस्य झलि 8.3.24
तिन्दु - अनुस्वारस्य ययि परसवर्णः 8.4.58
तिन्दु + सु + कन् - संज्ञायां कन् 5.3.75
तिन्दु + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
तिन्दु + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तिन्दुक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तिन्दुक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिन्दुक + रु - ससजुषो रुः 8.2.66
तिन्दुक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिन्दुकः - खरवसानयोर्विसर्जनीयः 8.3.15