आम्रातकः

सुधाव्याख्या

आम्रमतति । 'अत सातत्यगमने' (भ्वा० प० से०) । ‘कृञादिभ्यो वुन्’ (उ० ५.३५) ॥ ह्रस्वादिरपि । अम्लत्वमतति । रलयोरैक्यम् । ‘कपिचूतोऽम्रातकोऽस्य फले पशुहरीतकी' इति त्रिकाण्डशेषः ॥