तुण्डिकेरी

सुधाव्याख्या

तुण्डीति । तुण्डं चञ्चुरस्ति येषाम् । ‘अतः' (५.२.११५) इति ठन् । तुण्डिकानीरयति । ‘ईर प्रेरणे' (अ० आ० से०) । ‘कर्मण्यण्' (३.२.१) ॥ (तुण्डकेरी) इति पाठान्तरे प्रशस्तं तुण्डम् । ‘प्रशंसायां कन्’ । तुण्डकमीर्ते । अण् (३.२.१) ॥


प्रक्रिया

धातुः - ईरँ गतौ कम्पने च


तुण्ड + सु + ठन् - अत इनिठनौ 5.2.115
तुण्ड + ठन् - सुपो धातुप्रातिपदिकयोः 2.4.71
तुण्ड + ठन - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तुण्ड + इक - ठस्येकः 7.3.50
तुण्ड् + इक - यस्येति च 6.4.148
ईरँ गतौ कम्पने च
ईर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुण्डिक + शस् + ईर् + अण् - उपपदमतिङ् 2.2.19, कर्मण्यण् 3.2.1
तुण्डिक + ईर् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
तुण्डिक + ईर् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तुण्डिकेर - आद्गुणः 6.1.87
तुण्डिकेर + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
तुण्डिकेर + ई - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तुण्डिकेर् + ई - यस्येति च 6.4.148
तुण्डिकेरी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तुण्डिकेरी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुण्डिकेरी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68