तुङ्गी

सुधाव्याख्या

तुञ्जति । ‘तुजि हिंसायाम्' (भ्वा० प० से०) । अच् (३.१.१३५) । न्यङ्क्वादिः (७.३.५३) । ‘तुङ्गः पुंनागनगयोर्बुधे स्यादुन्नतेऽन्यवत् । तुङ्गी प्रोक्ता हरिद्रायां वर्वरायामपीष्यते' (इति हैम:) ॥


प्रक्रिया

धातुः - तुजिँ हिंसाबलादाननिकेतनेषु


तुज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तु + नुम् + ज् - इदितो नुम् धातोः 7.1.58
तु + न् + ज् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुंज् - नश्चापदान्तस्य झलि 8.3.24
तुञ्ज् - अनुस्वारस्य ययि परसवर्णः 8.4.58
तुञ्ज् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
तुञ्ज् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तुङ्ग - न्यङ्क्वादीनां च 7.3.53
तुङ्ग + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
तुङ्ग + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
तुङ्ग् + ई - यस्येति च 6.4.148
तुङ्गी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तुङ्गी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुङ्गी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68