गोपुरम्

सुधाव्याख्या

गां जलं पिपर्ति। ‘पृ पालने' (जु० प० से०) । मूलविभुजादिः (३.२.५) । गौर्जलं पुरमस्य, इति वा ॥


प्रक्रिया

धातुः - पॄ पालनपूरणयोः


गो + अम् + पॄ + क - कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (3.2.5) । वार्तिकम् ।
गो + पॄ + क - सुपो धातुप्रातिपदिकयोः 2.4.71
गो + पॄ + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गोपुर - उदोष्ठ्यपूर्वस्य 7.1.102
गोपुर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गोपुर + अम् - अतोऽम् 7.1.24
गोपुरम् - अमि पूर्वः 6.1.107