शुकम्

सुधाव्याख्या

शोचति । ‘शुच शोके' (भ्वा० प० से०) । ‘शु गतौ' वा । ‘शुकवल्कोल्काः' (उ० ३.४२) इति निपातः । ‘ग्रन्थिपर्णे शिरीषे च शुकः स्यात्' इति विश्वः । ‘शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । शिरीषपादपे पुंसि, ग्रन्थिर्पणे नपुंसकम् (इति मेदिनी) ॥ -शुकस्येव बर्हाणि पर्णान्यस्य । (‘शुकवर्हम्’) इत्येकं नाम-इत्येके ॥