प्लवम्

सुधाव्याख्या

प्लवते । ‘प्लुङ् गतौ’ (भ्वा० आ० अ०) । अच् (३.१.१३४) । ‘प्लवः कारण्डवे भेके कुलके भेलके कपौ । शब्दे प्लुतिगतौ प्लक्षे चण्डालजलकाकयोः । प्लवं गन्धतृणे प्रोक्तं कैवर्तीमुस्तकेऽपि च (इति विश्वः) । ‘प्लवगो वानरे भेके सारथौ चोष्णदीधिते:' (इति मेदिनी)॥