दद्रुघ्नः

सुधाव्याख्या

दद्रं हन्ति । ‘अमनुष्यकर्तृके च' (३.२.५३) इति टक् । 'अत्पूर्वस्य' (८.४.२२) इति नियमान्न णत्वम् ।—क्षुभ्नादित्वात् (८.४.३९) - इति मुकुटस्तु चिन्त्यः ॥


प्रक्रिया

धातुः - हनँ हिंसागत्योः


हन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दद्रु + अम् + हन् + टक् - अमनुष्यकर्तृके च 3.2.53
दद्रु + हन् + टक् - सुपो धातुप्रातिपदिकयोः 2.4.71
दद्रु + हन् + अ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
दद्रु + ह् + न - गमहनजनखनघसां लोपः क्ङित्यनङि 6.4.98
दद्रु + घ् + न - हो हन्तेर्ञ्णिन्नेषु 7.3.54
दद्रुघ्न - हन्तेरत्पूर्वस्य 8.4.22
दद्रुघ्न + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दद्रुघ्न + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दद्रुघ्न + रु - ससजुषो रुः 8.2.66
दद्रुघ्न + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दद्रुघ्नः - खरवसानयोर्विसर्जनीयः 8.3.15