चक्रमर्दकः

सुधाव्याख्या

चक्रं दद्रुं मुमृद्नाति । ‘मुद क्षोदे' (क्र्या० प० से०) । ‘कर्मण्यण्' (३.२.१) । स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

धातुः - मृदँ क्षोदे


मृद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चक्र + अम् + मृद् + अण् - कर्मण्यण् 3.2.1
चक्र + मृद् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
चक्र + मृद् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चक्र + मर्द् + अ - पुगन्तलघूपधस्य च 7.3.86
चक्रमर्द + सु + कन् - संज्ञायां कन् 5.3.75
चक्रमर्द + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
चक्रमर्द + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चक्रमर्दक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चक्रमर्दक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चक्रमर्दक + रु - ससजुषो रुः 8.2.66
चक्रमर्दक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चक्रमर्दकः - खरवसानयोर्विसर्जनीयः 8.3.15