चन्द्रः

सुधाव्याख्या

चन्दति । ‘चदि आह्लादने (भ्वा० प० से०) । ‘स्फायितञ्चि-' (उ० २.१३) इति रक् । ‘चन्द्रः कर्पूरकाम्पि ल्लसुधांशुस्वर्णवारिषु' (इति मेदिनी) ॥


प्रक्रिया

धातुः - चदिँ आह्लादे दीप्तौ च


चद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चन्द् - इदितो नुम् धातोः 7.1.58, नश्चापदान्तस्य झलि 8.3.24, अनुस्वारस्य ययि परसवर्णः 8.4.58
चन्द् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
चन्द्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चन्द्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चन्द्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चन्द्र + रु - ससजुषो रुः 8.2.66
चन्द्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चन्द्रः - खरवसानयोर्विसर्जनीयः 8.3.15