काम्पिल्यः

सुधाव्याख्या

केति । कम्पिलाया अदूरभवः । संकाशादित्वात् (४.२.८०) ण्यः ॥ कम्पते । ‘कपि किंचिच्चलने' (भ्वा० आ० से०) । बाहुलकादिल्लः । ‘प्रज्ञाद्यण्' (५.४.३८) । कं जलं पीलयति । श्लेष्मघ्नत्वात् । ‘पील प्रतिष्टम्भे' (भ्वा० प० से०) । कम्पूर्वात् ‘इगुपध-' (३.१.१३५) इति कः । इति मुकुटः । तन्न । ण्यन्तस्येगुपधत्वाभावात् । अण्यन्तादप्यणः प्रसङ्गाच्च । -इत्थं निर्यकारम् (‘काम्पिल्लः' इति) मन्यते – इत्येके ॥


प्रक्रिया