विष्णुपदम्

सुधाव्याख्या

विष्णोः पदम् आस्पदम् स्वरूपं वा । विष्णोः पदं क्रमोऽत्र इति स्वामी । तन्न । व्यधिकरणबहुव्रीहिप्रसङ्गात् । (‘विष्णुपदं नभोऽब्जयोः । विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा । संक्रान्तिर्द्वारिका चापि’) ।