विहायः

सुधाव्याख्या

विशेषेण हाययति गमयति विमानादीन् । 'हय गतौ (भ्वा० प० से०) ण्यन्ताद् असुन् (उ० ४.१८९) विजहाति भुवं वा ‘वहिहाधाञ्भ्यश्छन्दसि' (उ० ४.२२१) इत्यसुन् । णिदित्यस्यानुवृत्तेर्युक् (७.३.३३) । विपूर्वाज्जहातेर्बाहुलकादसुन्-इति मुकुटः । तन्न । असुनो धातुमात्रात् (उ० ४.१८९) विहितत्वेन बाहुलकस्यानुपयोगात् । यकारस्याश्रवणप्रसङ्गाच्च । (१६)


प्रक्रिया

धातुः - हयँ गतौ


हय् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वि हय् णिच् - हेतुमति च 3.1.26
वि हय् इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वि हाय् इ - अत उपधायाः 7.2.116
वि हाय् इ असुन् - वहिहाधाञ्भ्यश्छन्दसि (४.१८९) । उणादिसूत्रम् ।
विहाय् असुन् - णेरनिटि 6.4.51
विहाय् अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विहायस् सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विहायस् स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विहायस् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
विहायरु - ससजुषो रुः 8.2.66
विहायर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विहायः - खरवसानयोर्विसर्जनीयः 8.3.15