वियत्

सुधाव्याख्या

वि विश्वत एति व्याप्नोति । इणः (अ० प० अ०) । शतृ (३.२.१२४) । वियच्छति न विरमति वा । विपूर्वाद्यमेः (भ्वा० प० अ०) अन्येभ्योऽपि (३.२.७५) इति क्विप् । ‘क्वौ च गमादीनाम्’ (वा० ६.४.४०) इति मलोपे तुक् (६.१.७१) ।