प्रहिः

सुधाव्याख्या

प्रह्रियते । ‘प्रे हरतेः कूपे’ (उ० ४.१३५) इति इ: डिच्च ॥


प्रक्रिया

धातुः - हृञ् हरणे


हृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्र + हृ + इण् – प्रे हरतेः कूपे (४.१३५) । उणादिसूत्रम् ।
प्र + हृ + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्र + ह् + इ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः ।
प्रहि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रहि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रहि + रु - ससजुषो रुः 8.2.66
प्रहि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रहिः - खरवसानयोर्विसर्जनीयः 8.3.15