कूपः

सुधाव्याख्या

कौति । ‘कु शब्दे’ (अ० प० से०) । ‘कुयुभ्यां च' (उ० ३.२७) इति पो दीर्घश्च । कुत्सिता ईषद्वा आपोऽत्र । ‘ऋक्पूर्-' (५.४.७४) इत्यः । ‘ऊदनो:-’ (६.३.९८) इत्यत्र दीर्घनिर्देशान्यत्राप्यूत्, इति वा । ‘कूपः कूपकमृन्माने गर्तान्धुगुणवृक्षके’