शिली

सुधाव्याख्या

शिलीति । शिलति । शिल उञ्छे' (तु० प० से०) । ‘इगुपध-'(३.१.१३५) इति क: । ‘जातेरस्त्री-' (४.१.६३) इति ङीष् । (शिलमुञ्छे स्याद्, गण्डूपद्यां शिली मता । स्तम्भशीर्षे शिलाशिल्यौ, शिला तु प्रस्तरे मता । तथा मनःशिलायां च द्वाराधःस्थितदारुणि(१) ॥ (२) द्वे किंचुलकाभार्यायाः इति स्वामी । क्षुद्रकिचुलकजाते: ।