वर्षाभूः

सुधाव्याख्या

भेकीति । ‘वर्षाभ्वी’ इत्यसाधु । ङीब्विधायकाभावात् स्त्रियामपि 'वर्षाभूः’ इत्येव । 'भेक्यां पुनर्नवायां स्त्री वर्षाभूदर्दुरे पुमान् इति यादवः । अन्ये तु -गौरादित्वात् (४.१.४१) ङीषमिच्छन्ति । अत एव भागुर्यमरमालयोः ‘वर्षाभ्वी’ इति दृश्यते ।