रोहितः

सुधाव्याख्या

अथविति । अथो झषविशेषा उच्यन्ते । रोहति । ‘रुह बीज जन्मनि प्रादुर्भावे च' (भ्वा० प० अ०) । ‘रुहे रश्च लो वा' (उ० ३.९४) इतीतच् । रोहणम् । घञ् (३.३.१८) । रोहो जातोऽस्य । तारकादित्वात् (५.२.३६) इतज्वा । 'रोहितं कुङ्कुमे रक्ते ऋजुशक्रशरासने । पुंसि स्यान्मीनमृगयोर्भेदे लोहित कद्रुमे ॥