शालः

सुधाव्याख्या

शाड्यते । ‘शाडु श्लाघायाम्’ (भ्वा० आ० से०) । कर्मणि घञ् (३.३.१९) । डलयोरैक्यम् । `शालो इषे, धीवर एव दाश:’ इत्यूष्मभेदात्तालव्यादिः । (‘कैवर्त इव बद्धराजीवोत्पलसालो वसन्तकालः इति वासवदत्ताश्लेषाद्दन्त्यादिश्च । कैवर्तपक्षे सालो मत्स्यभेदः । वसन्तपक्षे सालं पुष्पम्) । सालं पुष्पे क्लीबं वृक्षे तु पुमान् । 'पुंसि भूरुहमात्रेऽपि सालो वरण-सर्जयोः’ इति रभसे तु दन्त्यादिः । शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः’ इति हैमः ।