क्षुद्राण्डमत्स्यसंघातः

सुधाव्याख्या

क्षुद्रेति । क्षुद्रादण्डाज्जाता मत्स्या: – क्षुद्राण्डमत्स्याः । तेषां संघातः ।


प्रक्रिया

क्षुद्राण्ड + ङसि + मत्स्य + सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम् ।
क्षुद्राण्ड + मत्स्य - सुपो धातुप्रातिपदिकयोः 2.4.71
क्षुद्राण्डमत्स्य + ङस् + संघात + सु - षष्ठी 2.2.8
क्षुद्राण्डमत्स्य + संघात - सुपो धातुप्रातिपदिकयोः 2.4.71
क्षुद्राण्डमत्स्यसंघात + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्षुद्राण्डमत्स्यसंघात + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षुद्राण्डमत्स्यसंघात + रु - ससजुषो रुः 8.2.66
क्षुद्राण्डमत्स्यसंघात + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षुद्राण्डमत्स्यसंघातः - खरवसानयोर्विसर्जनीयः 8.3.15