अश्विनौ

सुधाव्याख्या

प्रशस्ता अश्वाः सन्ति ययोः । इनिः (५.२.११५) । यद्वा अश्विन्यां जातौ । ‘संधिवेला-'(४.३.१६) इत्यणः नक्षत्रेभ्यो बहुलम्' (४.३.३७) इति लुकि 'लुक् तद्धितलुकि' (१.२.४९) इति डीपो लुक् अश्वोऽस्ति जनकत्वेन ययोर्वा । इन् (५.२.११५)