दस्रौ

सुधाव्याख्या

दस्यतः क्षिपतो रोगान् । 'दसु उपक्षये’ (दि० प० से०) ।‘स्फायितञ्चि-' (उ० २:१३) इति रक् । (दस्रः खरेऽश्विनीसुते)


प्रक्रिया

धातुः - दसुँ उपक्षये


दस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दस्+रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-खिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२:१३) । उणादिसूत्रम् ।
दस्+र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दस्र+औ - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दस्रौ - वृद्धिरेचि 6.1.88