शास्ता

सुधाव्याख्या

शास्तीति शास्ता । ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ' (उ० २.९४) इति तृन् तृज्वा । पितृवच्छास्तृशब्दः । नप्त्रादिग्रहणस्य (६.४.११) नियमार्थत्वात् । चान्द्रे शासे: क्तिचि शिष्टिरित्यत्र ‘शास्ता' इति प्रत्युदाहरणेऽनौणादिकतृच एव रत्नमतिना दर्शित्वाद्बुद्धवाचिनोऽपि दीर्घ:-इति सुभूतिः । तन्न । तृचस्तस्येप्रसङ्गात् । अनौणादिकतृच एवेत्यत्र प्रमाणाभावाच्च । (‘शास्ता समन्तभद्रे ना शासके पुनरन्यवत्’) ॥