षडभिज्ञः

सुधाव्याख्या

दिव्यं चक्षुः श्रोत्रम्, परचित्तज्ञानम्, पूर्वनिवासानुस्मृतिः, आत्मज्ञानम्, वियद्गमनम्, कायव्यूहसिद्धिश्चेति षट् अभितो ज्ञायमानानि यस्य सः । षट्सु दानशीलक्षान्ति वीर्यध्यानप्रज्ञासु अभिज्ञा आद्यं ज्ञानमस्येति वा ॥