गूढपाद्

सुधाव्याख्या

गूढाः पादा अस्य । पृषोदरादिः (६.३.१०९) । ‘पादानामपि विज्ञेये द्वे शते द्वे च विंशती’ इत्यागमः । यद्वा गूढं पादयति । ‘पद गतौ (दि० आ० अ०) । ण्यन्तात् (३.१.२६) क्विप् (३.२.१७८) ।