सरीसृपः

सुधाव्याख्या

कुटिलं सर्पति । नित्यं कौटिल्ये गतौ (३.१.२३) इति यङ् । पचाद्यच् (३.१.१३४) । ‘यङोऽचि च (२.४.७४) । ‘संसार-सारस-सरीसृप-सस्य-सास्ना: इति द्विदन्त्ये ऊष्मविवेकः ।


प्रक्रिया

धातुः - सृपॢँ गतौ


सृप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सृप् + यङ् - नित्यं कौटिल्ये गतौ 3.1.23
सृप् + सृप् + यङ् - सन्यङोः 6.1.9
सर् + प् + सृप् + यङ् - उरत्‌ 7.4.66, उरण् रपरः 1.1.51
स + सृप् + यङ् - हलादिः शेषः 7.4.60
स + सृप् + यङ् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
स + सृप् + अच् - यङोऽचि च 2.4.74
स + सृप् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स + रीक् + सृप् + अ - रीगृदुपधस्य च 7.4.90
स + री + सृप - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सरीसृप + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सरीसृप + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सरीसृप + रु - ससजुषो रुः 8.2.66
सरीसृप + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सरीसृपः - खरवसानयोर्विसर्जनीयः 8.3.15