व्रीडा

सुधाव्याख्या

व्रीड लज्जायाम्' (दि० प० से०) । गुरोश्च' (३.३.१०३) इत्यप्रत्यये व्रीडा । घञि (३.३.१८) व्रीडः अपि । 'गण्डूषगर्जभुजजागरहारकीलज्वालाजटारभसवर्तकगर्धशृङ्गाः ॥ व्रीडादयश्च वरटश्च वराटकश्च उत्कण्ठवाणकरकाश्च समामयाश्च इति स्त्रीपुंलिङ्गकथने रभसः । ('व्रीडोऽक्लीबे त्रपा लज्जा’ इति च तेनोक्तम्) ।