अवमानना

सुधाव्याख्या

अवमाननम् । मनेर्ण्यन्ताद्युच् (३.३.१०७) ।


प्रक्रिया

धातुः - मनँ ज्ञाने


मन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अव + मन् + णिच् - हेतुमति च 3.1.26
अवमन् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अवमान् + इ - अत उपधायाः 7.2.116
अवमान् + इ + युच् - ण्यासश्रन्थो युच् 3.3.107
अवमान् + युच् - णेरनिटि 6.4.51
अवमान् + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अवमान् + अन - युवोरनाकौ 7.1.1
अवमानन + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अवमानन + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अवमानना - अकः सवर्णे दीर्घः 6.1.101
अवमानना + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अवमानना + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अवमानना - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68