असूर्क्षणम्

सुधाव्याख्या

‘सूर्क्ष आदरे’ (भ्वा० प० से०) । सरेफः' । नर्तुं सूर्क्षेत्’ । ‘तत्तन्नसूर्क्ष्यम्’ इति (तैत्तिरीयब्राह्मणे) दर्शनात् । तस्माल्ल्युट् (३.३.११५) । नञ्समासः । अत्र मुकुटस्य वृथाक्लेश उपेक्षणीयः ।