नामधेयम्

सुधाव्याख्या

म्नायते । ‘म्ना अभ्यासे (भ्वा० प० से०) । यद्वा नम्यतेऽभिधीयतेऽर्थोऽनेन । ‘णम प्रह्वत्वे शब्दे च (भ्वा० प० अ०) । 'नामन्सीमन्-’ (उ० ४.१५१) इति निपातितः । ‘भागरूपनामभ्यो धेय:’ (वा० ५.४.३५) इति स्वार्थे वा धेयः ।


प्रक्रिया

धातुः - म्ना अभ्यासे


ना मनिन् - नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् (४.१५१) । उणादिसूत्रम् ।
ना + मन् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नामन् + सु + धेय - भागरूपनामभ्यो धेयः (5.4.36) । वार्तिकम् ।
नामन् + धेय - सुपो धातुप्रातिपदिकयोः 2.4.71
नाम + धेय - नस्तद्धिते 6.4.144
नामधेय + अम् - अतोऽम् 7.1.24
नामधेयम् - अमि पूर्वः 6.1.107