आकारणा

सुधाव्याख्या

आकारणम् । कृञो ण्यन्तात् (३.१.२६) । युच् (३.३.१०७) ।


प्रक्रिया

धातुः - डुकृञ् करणे


कृ - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
आङ् + कृ + णिच् - हेतुमति च 3.1.26
आ + कृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
आ + कार् + इ - अचो ञ्णिति 7.2.115
आ + कार् + इ + युच् - ण्यासश्रन्थो युच् 3.3.107
आ + कार् + युच् - णेरनिटि 6.4.51
आ + कार् + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आ + कार् + अन - युवोरनाकौ 7.1.1
आकारण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
आकारण + टाप् - अजाद्यतष्टाप्‌ 4.1.4
आकारण + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
आकारणा - अकः सवर्णे दीर्घः 6.1.101
आकारणा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आकारणा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आकारणा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68