स्वरः

सुधाव्याख्या

स्वरन्ति शब्दायन्ते । ‘स्वृ शब्दोपतापयोः’ (भ्वा० प० अ०) । पचाद्यच् (३.१. १३४) । यद्वा -स्वर्यन्ते अर्था एभिः । ‘पंसि–’ (३.३.११८) इति घः । यद्वा-स्वेन राजन्ते । राजृ दीप्तौ (भ्वा० उ० से०) । अन्येभ्योऽपि- (वा०३.२.१०१) इति ड: । स्वरा अचः । तद्धर्मत्वादुदात्तादयोऽपि । ‘स्वरो नासासमीरे स्यान्मध्यमादित्रिकस्वरे । उदात्तादावकारादौ षड्जादौ च ध्वनौ पुमान् इति विश्वमेदिन्यौ । उत् उच्चैरादीयते उच्चार्यते स्म । क्तः (३.२.१०२) । 'अच उपसर्गात्त:’ (७.४.४७) 'उदात्तो दातृमहतोर्हृद्ये च स्वरभिद्यपि' इति हैमः ।