ओङ्कारः

सुधाव्याख्या

अवति । ‘अवतेष्टिलोपश्च' (उ० १.१४२) इति मन्प्रत्ययस्यैव टिलोपः 'ज्वरत्वर-' (६.४.२०) इत्यूठौ । गुणः (७.३.८४) । वषट्कारः (१.२.३५) इति लिङ्गात्समुदायादपि कारप्रत्ययः (वा० ३.३.१०८) ।


प्रक्रिया

धातुः - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु


अव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अव् + मन् - अवतेष्टिलोपश्च (१.१४२) । उणादिसूत्रम् ।
अव् + म् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ऊठ् + म् - ज्वरत्वरश्रिव्यविमवामुपधायाश्च 6.4.20
ऊ + म् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ओ + म् - सार्वधातुकार्धधातुकयोः 7.3.84
ओम् + कार - उच्चैस्तरां वा वषट्कारः 1.2.35
ओंकार - नश्चापदान्तस्य झलि 8.3.24
ओङ्कार - अनुस्वारस्य ययि परसवर्णः 8.4.58
ओङ्कार + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ओङ्कार + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ओङ्कार + रु - ससजुषो रुः 8.2.66
ओङ्कार + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ओङ्कार - खरवसानयोर्विसर्जनीयः 8.3.15