शिक्षा

सुधाव्याख्या

श्रुतेर्वेदस्य शिक्षेत्याद्यङ्गम् । ‘शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते । शिक्ष्यते स्थानादिकमनया । ‘शिक्ष विद्योपादाने’ (भ्वा० आ० से०) । गुरोश्च-' (३.३.१०३) इत्यप्रत्ययः । अङ्ग्यते ज्ञायतेऽनेन । 'अगि गतौ (भ्वा० प० से०) । घः (३.३.११८) । घञ् (३.३.१२१) वा ॥ अङ्ग्यते ज्ञायतेऽनेन । 'अगि गतौ (भ्वा० प० से०) । घः (३.३.११८) । घञ् (३.३.१२१) वा ॥