सूनृतम्

सुधाव्याख्या

सूनृतमिति । प्रीणाति । 'प्रीञ् तर्पणे’ (क्र्या० प० अ०) । इगुपध-’ (३.१.१३५) इति कः ॥ सत्सु साधु । यत् (४.४.९८) ॥ प्रियं यत्सत्यम् तस्मिन् । सुष्टु नृत्यन्त्यनेन । घञर्थे कः (वा० ३.३.५८) । यद्वा 'हलश्च’ (३.३.१२१) इति घञ् । संज्ञापूर्वकत्वाद्गुणाभावः । ‘अन्येषामपि’ (६.३.१३७) इति दीर्घः । यत्तु - मूलविभुजादित्वात् (वा० ३.२.५) ‘कः’ इति मुकुटेनोक्तम् । तन्न । तस्य कर्तरि विधानात् । 'सूनृतं मङ्गलेऽपि स्यात्प्रियसत्ये वचस्यपि' ॥