अश्लीलम्

सुधाव्याख्या

श्रियं लाति । आतोऽनुप-’ (३.२.३) इति कः । तद्भिन्नम् । कपिलकादित्वात् (वा० ८.२.१८) लत्वम् ॥


प्रक्रिया

धातुः - ला आदाने


श्री + अम् + ला + क - आतोऽनुपसर्गे कः 3.2.3, उपपदमतिङ् 2.2.19
श्री + ला + क - सुपो धातुप्रातिपदिकयोः 2.4.71
श्री + ला + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
श्री + ल् + अ - आतो लोप इटि च 6.4.64
नञ् + श्रील + सु - नञ्‌ 2.2.6
नञ् + श्रील - सुपो धातुप्रातिपदिकयोः 2.4.71
न + श्रील - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + श्रील - नलोपो नञः 6.3.73
अश्लील - कपिलकादीनां संज्ञाच्छन्दसोर्वेति वाच्यम् (८.२.१८) । वार्तिकम् ।
अश्लील + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अश्लील + अम् - अतोऽम् 7.1.24
अश्लीलम् - अमि पूर्वः 6.1.107