विज्ञानम्

सुधाव्याख्या

अन्यफलिका शिल्पे शास्त्रे च या धीः सा विज्ञानम् । विज्ञानं कार्मणे ज्ञाने’ इति हैमः । मुकुटस्तु ‘मोक्ष इति निमित्तसप्तमी’ । मोक्षनिमित्तं शिल्पशास्त्रयोर्धीर्ज्ञानमुच्यते । ‘अन्यनिमित्तं या तयोर्धी: सा विज्ञानम्' इति व्याख्यत् । तन्न । शिल्पज्ञानस्य मोक्षेऽनुपयोगात् ।