अमृतम्

सुधाव्याख्या

अविद्यमानं मृतं मरणमत्र । ‘अमृतं यज्ञशेषे स्यात्पीयूषे सलिले धृते । अयाचिते च मोक्षे त्त ना धन्वन्तरिदेवयोः'॥


प्रक्रिया

अ + सु + मृत + सु - नञोऽस्त्यर्थानां बहुव्रीहिर्वाचोत्तरपदलोपश्च वक्तव्यः (2.2.24) । वार्तिकम् ।
अ + मृत - सुपो धातुप्रातिपदिकयोः 2.4.71
अमृत - सुपो धातुप्रातिपदिकयोः 2.4.71
अमृत + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अमृत + अम् - अतोऽम् 7.1.24
अमृतम् - अमि पूर्वः 6.1.107