कुहूः

सुधाव्याख्या

कुहूः । कुहयति । ‘कुह विस्मापने (चु० उ० से०) चुरादिः । नृतिशृध्योः कूः' (उ० १.९१) इति कूप्रत्ययो बाहुलकादिहापि । मृगय्वादित्वाद्ध्रस्वोऽपीत्यन्ये । धेनूरुरज्जुकुहुसरयुतनुकरेणवः स्त्रियाम्' इति विन्ध्यवासी । ‘कुहूः स्त्री कोकिलाला-पनष्टेन्दुकलदर्शयोः ॥