सिनीवाली

सुधाव्याख्या

सेति । चतुर्दशीयोगाद्दृष्टचन्द्रा सती सा अमा सिनीवाली । एन विष्णुना सह वर्तते सा लक्ष्मीः । तद्योगात् । सिनी चन्द्रकला । व्रीह्यादित्वात् (५.२.११६) इनि: । सिनीं वलति धारयति । कर्मण्यण्' (३.२.१) यत्तु—स्त्रियाः पुंवत्-’ (६.३.३४) इति न पुंवत्वम् । ‘संज्ञापूरण्योश्च' (६.३.३८) इति निषेधात् इति मुकुटः । तन्न । सिनीवालीत्यत्र सामानाधिकरण्याभावात्, असंज्ञात्वात्, अभाषितपुंस्कत्वाच्च । यदपिसिनी चन्द्रकला सा बालाल्पात्र-इति तेन विगृहीतम् । तदपि न । बालेत्यस्य विशेषणत्वेन पूर्वनिपातप्रसङ्गात् । स्वामी तु—सिनी सिता बालास्त्यस्याम्-इत्याह । तन्न । पुंवद्भावप्रसङ्गात् । ('सिनी वाली तु दृष्टेन्दुकलामादुर्गयोः स्त्रियाम्') ।


प्रक्रिया

वल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सिनी + अम् + वल् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
सिनी + वल् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
सिनी + वल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सिनी + वाल् + अ - अत उपधायाः 7.2.116
सिनीवाल + सु + इनि - व्रीह्यादिभ्यश्च 5.2.116
सिनीवाल + इनि - सुपो धातुप्रातिपदिकयोः 2.4.71
सिनीवाल + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सिनीवाल् + इन् - यस्येति च 6.4.148
सिनीवालिन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सिनीवालिन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सिनीवालीन् + स् - सौ च 6.4.13
सिनीवालीन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
सिनीवाली - नलोपः प्रातिपदिकान्तस्य 8.2.7