क्षेमम्

सुधाव्याख्या

क्षयत्यशुभम् । ‘क्षि क्षये’ (भ्वा० प० अ०) । मन् (उ० १.१४०) । अस्त्रियामिति क्षेममात्रान्वयि । यत्तु – क्षिणोत्यशुभमिति विगृह्य ‘क्षि क्षये इति धातोरुपन्यसनं मुकुटेन कृतम् । तदसंगतम् । क्षेमस्तु मङ्गले । लब्धसंरक्षणे मोक्षे क्षेमोमाधनहर्यपि ॥


प्रक्रिया

धातुः - क्षि क्षये


क्षि + मन् - अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन् (१.१४०) । उणादिसूत्रम् ।
क्षि + म - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क्षे + म - सार्वधातुकार्धधातुकयोः 7.3.84
क्षेम + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्षेम + अम् - अतोऽम् 7.1.24
क्षेमम् - अमि पूर्वः 6.1.107