अनेहा

सुधाव्याख्या

नाहन्ति नागच्छति, नाहन्यते, इति वा । 'नञ्याहन एह च' (उ० ४.२२४) इत्यसुन्, एहादेशश्च । सौ 'ऋदुशनस् (७.१.९४) इत्यनङ् । तस्मान्नुडचि’ (६.३.७४) इति नुट् । सान्तः ।


प्रक्रिया

धातुः - हनँ हिंसागत्योः


हन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नञ् + हन् + सु - नञ्‌ 2.2.6
नञ् + हन् - सुपो धातुप्रातिपदिकयोः 2.4.71
न + हन् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
न + एह् + असुन् - नञि हन एह च (४.२२४) । उणादिसूत्रम् ।
न + एह् + अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अ + एह + अस् - नलोपो नञः 6.3.73
अ नुट् + एह् + अस् - तस्मान्नुडचि 6.3.74
अन् + एह् + अस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अनेहस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अनेहस् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अनेह अनङ् + स् -ऋदुशनस्पुरुदंसोऽनेहसां च 7.1.94
अनेह + अन् + स् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अनेहन्स् + स् - अतो गुणे 6.1.97
अनेहान्स् + स् - सान्तमहतः संयोगस्य 6.4.10
अनेहान्स् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
अनेहान् - संयोगान्तस्य लोपः 8.2.23
अनेहा - नलोपः प्रातिपदिकान्तस्य 8.2.7