तिथिः

सुधाव्याख्या

तदाद्या इति । सा प्रतिपद् आद्या यासां ताः । अत सातत्यगमने’ (भ्वा० प० से०) 'ऋतन्यङ्गि-' (उ० ४.२) इत्यतेरिथिन् । पृषोदरादित्वात् (६.३.१०९) अल्लोपः।


प्रक्रिया

धातुः - अतँ सातत्यगमने


अत् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अत् + इथिन् - ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः (४.२) । उणादिसूत्रम् ।
अत् + इथि - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तिथि - पृषोदरादीनि यथोपदिष्टम् 6.3.109
तिथि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तिथि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिथि + रु - ससजुषो रुः 8.2.66
तिथि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिथिः - खरवसानयोर्विसर्जनीयः 8.3.15