पक्षतिः

सुधाव्याख्या

पक्षस्य मूलम् । ‘पक्षात्ति:’ (५.२.२५) । 'सर्वतोऽक्तिन्नर्थात्'(वा० ४.१.४५) इति ङीषि तु पक्षती । पक्षतिस्तु भवेत्पक्षमूले च प्रतिपत्तिथौ ।